|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.50. अध्यायः 050
Mahabharata - Bhishma Parva - Chapter Topics
धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-50-0x(4113)(40697)
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥ 6-50-1(40698)
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ 6-50-2(40699)
शुचा परमया युक्तश्चिन्तयानः पराजयम्।
वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम् ॥ 6-50-3(40700)
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ 6-50-4(40701)
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ 6-50-5(40702)
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।
दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम् ॥ 6-50-6(40703)
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥ 6-50-7(40704)
न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः ।
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे ॥ 6-50-8(40705)
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥ 6-50-9(40706)
न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ 6-50-10(40707)
यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः ।
विनाशायोपगच्छन्ति तथा मे सनिको जनः ॥ 6-50-11(40708)
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ 6-50-12(40709)
मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात्।
जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ 6-50-13(40710)
जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ॥ 6-50-14(40711)
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ 6-50-15(40712)
किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ 6-50-16(40713)
एको भीमः परं शक्त्या युध्यत्येव महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ 6-50-17(40714)
गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ॥ 6-50-18(40715)
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ 6-50-19(40716)
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ 6-50-20(40717)
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ 6-50-21(40718)
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ 6-50-22(40719)
स त्वं पश्य महाभाग योगेश्वर महारथम् ।
भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा ॥ 6-50-23(40720)
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ॥ 6-50-24(40721)
एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ 6-50-25(40722)
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् ।
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 6-50-27aमाशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि ।
यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक ॥ 6-50-26(40723)
अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः ।
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ॥ 6-50-28(40724)
तथैव सबलाश्चेमे राजानो राजसत्तम।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ॥ 6-50-29(40725)
एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।
सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥ 6-50-30(40726)
शिखण्डी च महाबाहो भीष्मस्य निधनं किल।
एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् ।
अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः ॥ 6-50-31(40727)
धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष।
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ 6-50-32(40728)
भवान्सेनापतिर्मह्यं वासुदेवेन संमितः।
कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥ 6-50-33(40729)
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ।
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥ 6-50-34(40730)
अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष ।
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥ 6-50-35(40731)
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ।
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ॥ 6-50-36(40732)
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा।
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥ 6-50-37(40733)
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ।
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥ 6-50-38(40734)
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ।
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ॥ 6-50-39(40735)
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ।
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥ 6-50-40(40736)
तं यथावत्प्रतिव्यूहं परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ 6-50-41(40737)
यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥ 6-50-42(40738)
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ 6-50-43(40739)
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । 6-50-44bआकाशग इवाकाशे गन्धर्वनगरोपमः ॥ 6-50-44(40740)
नृत्यमान इवाभाति रथचर्यासु मारिष ।
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥ 6-50-45(40741)
बभूव परमोपेतः सुमेरुरिव भानुना ।
शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ॥ 6-50-46(40742)
कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ ।
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥ 6-50-47(40743)
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।
पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ॥ 6-50-48(40744)
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः।
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-50-49(40745)
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ।
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥ 6-50-50(40746)
मारुता धेनुकाश्चैव तंगमाः परतंगणाः ।
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥ 6-50-51(40747)
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ।
अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः ॥ 6-50-52(40748)
शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥ 6-50-53(40749)
रथानामयुतं पक्षौ शिरस्तु नियुतं तथा।
पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः ॥ 6-50-54(40750)
ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः ।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥ 6-50-55(40751)
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ।
जघनं पालयामास विराटः सह केकयैः ॥ 6-50-56(40752)
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ।
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥ 6-50-57(40753)
सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः ।
तेषामादित्यवर्मानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ॥ 6-50-58(40754)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे पञ्चाशोऽद्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-50-19 आर्जवेन अकुटिलेन दिव्यास्त्रमायाहीनेन ॥ 6-50-25 अन्तर्मनाः विमनाः ॥ 6-50-31 निधनं निधनहेतुः ॥ 6-50-32 भाषितमुक्तम् ॥ 6-50-33 मह्यं मम ॥ 6-50-44 आकाशग इव पक्षीव ॥ 6-50-45 रथचर्यासु रथवर्त्मसु ॥ 6-50-46 परमोपेतः परा उत्कृष्टा चासौ मा लक्ष्मीश्चेति परमा तया उपेतः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|